________________
२००
सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहुमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा 'संखंककुंददगरयअ. मयमहियफेणपुंजसन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलीलं वीजयन्त्यस्तिष्ठन्ति, ताश्च 'सघरयणामईओ अच्छाओ इत्यादि प्राग्वत्, 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्टतः, तस्मिँश्च देवच्छन्दके तासां जिनप्रतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलफलकानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामटशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि, अष्टशतं चूर्ण चङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरी. णां, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुजनिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरण. सिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं २ अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तेलसमुद्गकानामष्टशतं कोष्ठसमुद्कानामष्टशतं पत्रसमु. द्गाकानामष्टशतं चोयकसमुद्कानामष्टशतं तगरसमुदकानामष्टशतमेलासमुद्कानामष्टशतं हरितालसमुद्रकाना· मष्टशतं हिङ्गुलसकमुद्गकानामष्टशतं मनःशिलासमुद्कानामष्टशतमञ्जनसमुद्कानां सर्वाण्यपि अनि वैलादीनि परम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com