________________
१९८ नागपडिमाओ भूयपडिमाओ जक्खपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति । तासि णं जिणपडिमाणं पुरआ अट्ठसय घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडच्छुयाणं संनिखित्तं चिट्ठति। सिद्धाययणस्स गं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता ॥ (मू० ३९) ॥
'सभाए ण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुर. थिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं प्रज्ञप्तम्, एकं योजनशतमायामतः पश्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमुस्त्वेनेत्यादि सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ? यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहम. ण्डपाः तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथात्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् , 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्यान्तर्बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा षोडश योजनान्यायामवि. कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सवमणिमयी' त्यादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com