SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रसता, षोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतःसर्वरत्नमयी इत्यादि प्राग्वत्। तस्याश्च मणिपीठिकायाः उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, षष्टियोजना. न्यूर्ध्वमुस्त्वेन योजनमुद्वेधेन योजनं विष्कम्मेण अष्टाचत्वारिंशदनिकः 'अडयालीसइकोडीए अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वइरामयवट्टलट्ठसंठिए ' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेषं तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सव्वरयणामया जाव पडिरूवा' इति, तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह, उपरितनभागात् द्वादश योजनानि वर्जयित्वेति भावः, अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये षट्त्रिंशति योजनेषु बहवे सुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिककवर्णनं च प्राग्वत्, तेषु च रजतमयेषु सिक्ककेषु बहवो वज्रमयो गोलवृत्ताः समुद्काः प्राप्ताः, तेषु च वज्रमयेषु समु. द्केषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानतः सत्करणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स णं चेइयखंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ (सू० ३६) ___ तस्स माणवगस्स चेइयखंभस्स पुरत्थिमेणं एत्य णं महेगा मणिपेढिया पण्णत्ता, अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा। तीसे णं मणिपेढियाए उवरि एत्य णं महेगे सीहासण० वण्णओ सपरि १३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy