SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ मृष्टाः सुकुमारशाणया पाषाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात्, ततो विशेषणसमासः, 'अणेगवरपंचवण्णकुडभीसहस्स परिमंडियाभिरामा वाउद्धूय विजयवेजयंतीपडागा छत्ताइच्छत्तक लिया तुंगा गगनतलमभिलंघमाण सिहरा पासाईया जाव पडिरूवा' इति प्राग्वत । ' तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनान्युद्वेधेन -उण्डत्वेन, तासां च नन्दापुष्करिणीनां 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत् । ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ वनखण्डेन परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव । ' सभाए णं सुहम्माए ' इत्यादि, सभायां सुधर्मायामष्टचत्वारिंशन्मनोगुलिकासहस्राणि पीठिका सहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि, पोडश सहस्राणि पूर्वतः पोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णनं धूपघटकावर्णनं द्वारवत् । ' सभाए णं सुहम्माप' इत्यादि, सभायां सुधर्मायां अष्टाचत्वारिंशत् गोमानसिकाः शय्यारूपस्थानविशेषास्तेषां सहस्राणि प्रज्ञप्तानि तद्यथा - षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ उत्तरतः, तास्वपि फलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं धूपघटिकावर्णनं च द्वारवत्, 'सभाए णं सुहम्मार ' इत्यादिना भूमिभागवर्णनं ' सभाए णं सुहम्माए ' इत्यादिना उल्लोकवर्णनं च प्राग्वत् । ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy