________________
रक्तमृदुसुकुमारप्रवालपल्लवाकरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला ' इति विचित्रमणिरत्नमयानि यानि सुरभीनि फलानि च तेषां भरेण नमिताः शाला:शाखा येषां ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, सती-शोभना प्रभा-कान्तियेषां ते सत्प्रभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योताः, अधिकं नयनमनोनिवृतिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । एते च चैत्यवृक्षा अन्यैर्वहुभिस्तिलकलवकच्छत्रौपगशिरोषसप्तपर्णदधिपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजपनसतालतमालप्रियालप्रियङ्गपारापतराजवृक्षनन्दिवृक्षास र्वतः समन्तात् संपरिक्षिप्ताः, ते च तिलका यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं । 'तेलि ण 'मित्यादि, तेषां चत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चत्यवृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्रज्ञप्ताः ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामईओ' इत्यादि प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः । ते च महेन्द्रध्वजाः षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्धक्रोश-अर्धगत्यूतमुद्वेधेन-उण्डत्वेन अर्धक्रोशं विष्कम्भतः 'वारामयवट्टलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया' इति वज्रमया-वज्ररत्नमया तथा वृत्तं-वर्तुलं लष्टं-मनोशं संस्थितंसंस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com