________________
पोनां पुरतः प्रत्येकं २ मणिपीठिकाः प्राप्ताः, ताश्च माणपीठिकाः षोडश योजनान्यायामविष्कभाभ्यामष्टौ योजनानि बाहल्यतः 'सव्वमणिमइओ' इत्यादि प्राग्वत्, तासां च मणिपीठिकानामु. परि प्रत्येकं २ चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनार्धयोजनमुद्वधेन-उण्डत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुभध्यदेशभागे विडिमा-उर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-वइरामयमूला रययसुपइट्ठियविडिमा' वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्व विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातंमूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमकामूलभूता विशालाः शाखा येषां ते सुजातपरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्तत. वणिजपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयमीलनेन कर्मधारयः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ताःरक्तवर्णा मुदवः-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शाः प्रवालाईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनद.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com