________________
१८९
तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत्, प्रेक्षागृह मण्डपानां पुरतः प्रत्येकं २ मणिपीठिका प्रज्ञाता, ताश्च मणिपीठिकाः प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमयाः अच्छा इत्यादि विशेषण कदम्बकं प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन 'संखंके' त्यादि तद्वर्णनं सुगमं । तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि जाव सहस्त पत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उपि वहवे किण्हचामरज्झया जोव सुक्किलचामरज्झया अच्छा सण्हा रुप्पपट्टवइरदंडा जमलजामलगंधी सुरुवा पासाइया जाव पडिरूवा । तेसिं चेइयथूभाणं उपि बहवे छत्ताइच्छत्ता पडागा घंटाजु
,
गला उप्पलहत्थगा जाव सयसहरसपत्त हत्थगा सव्वरयणामया जाव पडिरुवा' इति एतच्च समस्तं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ ' चउदिसि' ति चतुदिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजना न्यायामविष्कम्भा भ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि प्राग्वत्, तासां च मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनोत्सेधः उत्कर्षतः : पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाग्यन्ते, 'पलियंकसंनिसण्णाउ' इति पर्यङ्कासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति तद्यथा ऋषभा वर्धमाना चन्द्रानना वारिषेणा इति, तेसि ण' मित्यादि, तेषां चत्यस्तू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
"