SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૨૮ पंचंगुलितला उपचियचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावो पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवर. कुंदुरुक्कतुरुक्कधूवडझंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगं. धिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसइसंपणादिया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायास्त्रिदिशितिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रशप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्थामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश २ योजनान्यूर्ध्वमुच्चस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावइयं चेवेति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, 'सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णन तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषां च द्वाराणां पुरतः प्रत्येकं २ मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः सातिरेकाणि षोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन, एते षामपि 'अणेगखंभसयसंनिविट्ठा' इत्यादि वर्णनं सुधर्मसभाया इव निरवशेषं द्रष्टव्यं, तेषां च मुखमण्डपानां पुरतः प्रत्येक २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविकम्भोञ्चैस्त्वैः प्राग्वत् तावद्वाच्यं यावन्मणीनां स्पर्शः, तेषां च बहुरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽक्षपाटकः प्रज्ञप्तः, तेषां च वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका अष्ट योजनान्याया. मविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येक २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy