SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ एवं च तन्मतचिन्तायां संशयः-किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेश्या ण' मित्यादि, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियच्चिरं-कियन्तं काल यावद्भवति ? एवंरूपा हि कियन्तं कालमवतिष्ठति इति ? भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात्, तथा न कदाचिन्न भविष्यति, किंतु भविष्यञ्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात् , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-'भुवि च' इत्यादि, अभूञ्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् धुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसं. भवादक्षया, न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, अक्षयत्वादेव अव्यया-अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यभावात् अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तराद्वहिः समुद्रवत्, एवं स्वप्र. माणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत्, 'से ण' मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च वन. खण्डो देशोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनपरिक्षेपपरिमाणो, वनखण्डवर्णकः 'किण्हे किण्होभासे' इत्या. दिरूपः समस्तोऽपि प्राग्वत् यावद्विहरन्ति, 'तस्स ण' मित्यादि, : तस्य-उपकारिकालयनस्य 'चउद्दिसं'ति चतुर्दिशि चतसृषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy