________________
विशेषणजातं प्राग्वत्, 'महया वासिकछत्तसगामाई' इति महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्रज्ञतानि हे श्रमण ! हे आयुष्मन् ! 'से एएणमटेण' मित्यादि, तदेतेन अर्थन-अन्वर्थेन गौतम ! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति। 'पउमवरवेड्या णं भंते ? किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती, उताशाश्वती आबन्ततया सूत्रे निर्देशः प्राकृतत्वातू, किं नित्या उतानित्येतिभावः, भगवानाह-गौतम ! स्यात् शाश्वती स्यादशाश्वती, कथंचिन्नित्या कथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'सेकेणदेण' मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! द्रव्यार्थतया द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान्, द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शाश्वती वर्णपर्यायैस्तत्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं गन्धपर्यायः रसपर्यायैः स्पर्शपर्यायैः उपलक्षणमेतत् तत्तदन्यपुद्गलविचटनोच्चटनैश्च अशाश्वती, किमुक्तं भवति ? पर्यायास्तिकनयमतेन पर्यायप्राधान्य विवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात्, ‘से एएणटेण' मित्याधुपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठा. पनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति,
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com