SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ इति पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, ‘तवणिज्जलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लतासूत्रं च प्राग्वत् । सम्प्रति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति'से केणटेणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थे, केनार्थनकेन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदि. केति. किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किंनिमित्तमिति, एवमुक्ते भगवानाह गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासुवेदिकापार्श्वेषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं, तेषामन्तराणि-अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु-स्तम्भपार्श्वेषु 'खभसीसेसु' इति स्तम्भशीर्षेषु 'स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, सूचीषु-फलकसंबन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूईमुहेसु' इति यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये फलकप्रदेशास्ते. ऽप्युपचारात् सूचिफलकानि तेषु सूचीनामधउपरिवर्तमानेषु, तथा 'सुईपुटंतरेसु' इति द्वे सूच्यौ सूचीपुटौ तदन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषास्तेषु, बहूनि उत्पलानि गर्दभकानि पद्मानि-सूर्यविकासोनि कुमुदानि-चन्द्रविकासीनि नलिनानिईषदरक्तानि पद्मानि सुभगानि-पद्मविशेषरूपाणि सौगन्धिकानिकल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-पत्रशतकलितानि सहस्रपत्राणिपत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाञ्च पृथगुपाते, एतानि सर्वरत्नमयानि 'अच्छा' इत्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy