________________
विसिहसंठापसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसंस्थिताश्चति, 'आईणगरूयबूरनवणीयतूलफासमउया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत्, तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभविमानवासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्राया अभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्तिउपविशति तुयटृति-त्वग्वर्तनं कुर्वन्ति, वामपार्श्वतः परावृत्य दक्षिणपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपायनेति भावः, रमन्ते-रतिमाबध्नन्ति ललन्ति-मनई प्मितं यथा भवति तथा वर्तन्त इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादि विनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति । इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् सुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्य कारणोपचारात् सुपराकान्तिजनितानि सुपराकान्तानि इत्युक्तं, किमुक्तं भवति ? सकलसत्त्वमैत्रीस. त्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किंश्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्त्या तथा. विधविशिष्टफलदायिनां, अथवा कल्याणानां अनर्थोपशमकाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com