SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहका. दिपरिग्रहः, 'बद्दनि हंसासनानि' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासंतीमण्डपका दधिवासुका. मण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्ली तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-द्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसृता सा लतेत्य. भिधीयते नागलतामया मण्डपकाः, अतिमुक्तमण्डपकाः 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषस्तद्युक्ता मण्डपका मालुकामण्डपकाः एते च कथंभूता इत्याह-'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसि ॥'मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु जावशब्दात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका हंसासनवत् संस्थिता हंसासनसंस्थिता यावदप्येकका दिक्सौवस्तिकासन संस्थिताः, यावत्करणात् 'अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया आयंसासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठिया अप्पेगइया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिह्नानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः कचित् 'मांसलसुघट्टShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy