SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्योंरूपाणि भद्रासनानि येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा हंसे कोंचे गरुडे उग्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे ॥१॥' इति, तानि सर्वाण्यपि कथंभूतानीत्यत आह-सव्वरयणामयाई' त्यादि प्राग्वत् । 'तेसि ण' मित्यादि. तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलिः-वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, प्रेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया मजनकं कुर्वन्ति, 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भगृहाकाराणि 'मोहणघराइन्ति मोहनंमैथुनसेवा 'रमियं मोहणरयाई' इति नाममालावचनात् तत्प्रधानानि गृहकाणि मोहनगृहकाणि, वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि, जालगृहकाणि-गवाक्षयु. कानि गृहकाणि, कुसुमगृहकाणि-कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणिगीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणि-आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह-'सव्वरयणामया' इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसि ण' मित्यादि, तेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy