________________
१६६ स्तका इति, 'तासि ण' मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पातपर्वता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयंति, निय. इपव्वया' इति नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, क्वचित् 'निययपव्वया' इति पाठः, तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरी. रेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगई पव्वया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपाः-स्फाटिकाः मंडपाः, उक्तं च जीवाभिगममूलटीकायां-"दगमण्डपाः-स्फाटिका मण्डपा' इति, एवं दकमञ्चकाः दकमालका दकप्रसादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा खुड्डु'त्ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोल. काश्च तेषु वनखण्डेषु तत्र २ प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूता ? इत्याह-सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसु णमित्यादि, तेषु उत्पातपर्वतेषु यावत् पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनादीनि आसनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोचासनानि गरुडासनानि च भावनीयानि, उन्नतासनानिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com