________________
१६५ अभिप्रभूता इत्यर्थः 'पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणं चात्र-घणपडिहत्थे गयणं सराइ नवसलिलउद्धमायाई । अइरेइयं मह उण चिंताए मण तुहं विरहे ॥१॥' इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्थभ्रमन्मत्स्यकच्छपाः, तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः 'प्रत्येकं प्रत्येकं' प्रति प्रत्येकमत्राभिमुख्ये प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात् प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिताः, प्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिबढाथै बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासां ता वारुणोदकाः, अप्येककाः क्षीरमिव उदकं यासां ताः क्षीरोदकाः, अप्येकका घृतमिव उदकं यासां ता घृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः अप्येककाः स्वाभाविकेन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् । तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपतीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रूपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया वंगा इत्यादि प्राग्वत् । 'तेमि गं' तेषां त्रिसो. पानप्रतिरूपकाणां प्रत्येकं तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भावनीयो यावत् बहवः सहस्रपत्रहShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com