________________
१६४
तास्तपनीयतलाः, तथा "सुवण्णसुज्झरययवालुयाउ' इति सुवर्ण-पीतकान्ति हेम सुन्भ-रूप्यविशेषः रजत-प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलम. यानि च प्रत्यवतटानि-तटसमीपवर्तिनः अत्युन्नतप्रदेशा यासांता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसुउत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो-जलमध्यावहिनिर्गमनं यासु ताः सुखोत्तारा. स्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थसुबद्धाउ' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र वहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चउकोणाउ' इति चत्वारः कोणा यासां ताश्चतु:कोणाः, एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात् न शेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टुअतिशयेन यो जातवप्रः-केदारो जलस्थानं तत्र गम्भीरं-अलब्धस्ताचं शीतल जलं यासु ता आनुपूर्व्यसुजातवप्रगम्भीरशी. तलजलाः, 'संछन्नपत्तभिसमुणालाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताः संछन्नपत्रबिसमृणालाः, इह विसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः, तथा वहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैःकेसरप्रधान फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसु. भगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्था-अतिरेकिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com