________________
१६२ किमुक्तं भवति ? एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कण्टकःकवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसःशेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुसण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकण्टकप्रमुखानि आवरणानि तैर्भूतः-परिपूर्णः, तथा योधानां युद्धं तनिमित्तं सद्यः-प्रगुणीभूतो यः स योधयुद्धसज्जस्ततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुट्टिम. तले-मणिबद्धभूमितले अभीक्ष्णमभीक्ष्ण कुडिमतलप्रदेशे वा 'अभिघट्टिज्जमाणस्से ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पित्थं' श्वासयुक्तमिति, तथा उत्प्राबल्येन अतितालमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकं अनुनासिकाविनिर्गतस्वरानुगतमितिभावः, तथा 'अट्टगुणोववेय' मिति अष्टभिगुणरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः पूर्ण रक्तमलङ्कृतं व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-"पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविघुटुं । महुरं समं सललियं अट्टगुणा होंति गेयस्स ॥१॥" तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रनं, अन्योऽन्यस्वरविशेषकरणेन यदल
कृतमिव गीयते तदलङ्कृतं, अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन
ललनेन वर्तत इति सललितं, यदि वा यत् श्रोत्रेन्द्रियस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com