SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १६१ दीर्घो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्र हेम घण्टिकादिचलनवशतो वेदितव्यः, रथश्वेह संग्रामरथः प्रत्येयोऽग्रे तनविशेषणानामन्यथासंभवात् तस्य च फलक वेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाण वसेया, तस्य च रथस्य विशेषणान्यभिधत्ते - 'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य - उभपार्श्वविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं- प्रधानतोरणं यस्य स सतोरणवरस्तस्य सह नन्दीघोषो - द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह किङ्किण्यः- क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानियानि हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु - बहिः प्रदेशेषु परिक्षिप्तो व्याप्तस्तस्य, तथा हैमवतं - हिमवत्पर्वतभावि चित्रंविचित्र मनोहारिविशेषोपेतं तिनिशतरुसंबन्धि कनकविच्छुरितं दारु-काष्टं यस्य स हैमवतचित्रतैनिशकनक निर्युक्त दारुकस्तस्य, सूत्रे च द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात्, तथा सुष्ठु अतिशयेन सम्यक् पिनद्धं - बद्धमरकमण्डलं धृश्च यस्य स सुसंपिनद्धारक मंडल धूकस्तस्य, तथा कालायसेन - लोहेन सुष्ठु - अतिशयेन कृतं नेमेः बाह्यपरिधेर्यन्त्रस्य च अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा- गुणैर्व्याप्ता ये वराः - प्रधानास्तुरगास्ते सुष्ठु - अतिशयेन सम्यक् प्रयुक्ता - योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि कान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको दक्षः सारथिस्तेन सुष्ठु सम्यक् परिगृहीतस्य, तथा 'सरसयवत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत् तूणानि तैर्भण्डितः शरशतद्वात्रिंशचूणमण्डितः, ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy