SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ . १५० मङ्गलानां भक्त्या मंगलभत्तिय सुरभिः शीतला सुगन्ध णाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रशते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि ण 'मित्यादि, तेषां तोरणानां पुरतो वे द्वे छत्रे रूप्यमये प्रहते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनद. कर्णिकानि वज्रसन्धीनि-वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख या वर. काञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु तानि, तथा 'दहरमलयसुगंधिसम्वोउयसुरभिसीयलच्छाया' इति दर्दरःचीवरावनद्ध-कुण्डिकादिभाजनमुख तेन गालितास्तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृतिः सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो वज्र वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचिंतानि येषु ते तथा एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहिय. फेणपुंजसन्निकासाओ' इति 'शङ्खः' प्रतीतः अङ्को-रत्नविशेषः 'कुंदे 'ति कुन्दपुष्पं दकरज-उदककणाः अमृतमथितफेनपुञ्जःक्षीरोदजलमथनसमुत्थः फेनपुञ्जस्तेषामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राग्वत् । 'तेसि णं तारणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy