________________
. १४९
जलशून्याः करकाः प्रज्ञप्ताः, तद्यथा-' किण्हसुत्ते 'त्यादि गवच्छंआच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) कृष्णसूत्रैः- कृष्णसूत्रमयैर्गवच्छिकै (तै) रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलसूत्र सिक्कगगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । ' तेसि ण ' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चित्रौ आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्तौ ' से जहानामए ' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः - चतुषु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु - पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्यैव चित्रः - आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा ' वेरुलियनानामणिफलियपडलपञ्चोपडे ' इति बाहुल्येन वैडूर्यमणिमयः 'फलिहपडलपञ्चोयडे' इति स्फटिकपटलावच्छादितः 'साए पभाए ' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण व्याचष्टे - उद्योतयति तापयति प्रभासयति 'एवमेवे 'त्यादि सुगमं ' तेसि णं तोरणाण 'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्व वृषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममूल टीकाकारेण - " हथकण्ठौ - हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या " इति, तथा चाह' सव्वरयणामया' इति सर्वे रत्नमया - रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । ' तेसि ण ' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पच प्रज्ञते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वारमना रत्नमया 'अच्छा 'इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, ' तेसि णं तोर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com