SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ दर्शनात् क्तान्तस्य परनिपातः अच्छस्त्रिच्छटितैः शालितण्डलैर्नखसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवमाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् "महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! 'तेसि 'मित्यादि तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायौ प्रक्षप्ते, ताश्च पाध्यः ‘सच्छोदगपडिहत्थाओ' इति स्वच्छपानीय. परिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाविवे' ति अत्र षष्ठी तृतीयार्थे ' बहु पडिपुण्णे ति चैकवचनं प्राकृतत्वात् , नानाविधैः फलहरितैर्हरितफलेबहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि किं तु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महये 'ति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञताः हे श्रमण हे आयुष्मन् ! 'तेसि ण 'मित्यादि तेषां तोरणानां पुरतो द्वौ सुप्रतिष्टको-आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधः पञ्चवर्णैः प्रसा. धनभाण्डैश्च बहुपरिपूर्णा इव तिष्टन्ति, उपमाभावना प्राग्वत् , ‘सबरयणामइओ' इत्यादि तथैव, ' तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिका नाम पीठिका, उक्तं च जीवाभिगममूलटीकायां-" मनोगुलिका नाम पीठिके "ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यः 'अच्छा' इत्यादि प्राग्वत् । तासु णं मणोगुलियासु बहवे' इत्यादि तासु मनोगुलिकासु सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाःअङ्कुटकाः [ सिवकेषु] तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरकाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy