SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४७ इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः, 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वौ द्वौ दिक्सौवस्तिकौ-दिक्प्रोक्षको ते च सर्वे जाम्बूनदमयाः, क्वचित्पाठः 'सव्वरयणामया अच्छा 'इत्यादि, प्राग्वत् 'तेसि ण 'मित्यादि द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ, वर्णकः चन्दनकलशानां 'वर. कमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः, 'तेसि ण'मित्यादि द्वौ द्वौ भृङ्गारो, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ' महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महत्-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा तपनीयमयाः प्रकण्ठकाः-पीठविशेषा, अङ्कमयानि-अङ्करत्नमयानि मंडलानि यत्र प्रतिबिंबसम्भूतिः ‘अणोग्धसियनिम्मलाए' इति अवघर्षणमवधर्षितं भावे क्तप्रत्ययः तस्य निर्मलता अवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मला अनवर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्धकायसमानाः-कायाप्रमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! 'तेसि ण 'मित्यादि तेषां तोरणानां पुरतो वे वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनामे स्थाले प्रज्ञप्ते तानि चस्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्टपडिपुण्णा इव चिटुंति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन् वारान् छटिताः अत एव 'नखसन्दष्टाः' नखाःनखिकाः सन्दष्टा मुशलादिभिः छटिता येषां ते तथा सुखादिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy