________________
१४६
"
एक
विमानमिव निरवशेषं भावनीयं, ' तेसि णं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत्, ' तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तकौ प्रशप्तौ तेषां च नागदन्तकानां वर्णनं यथाधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्, ' तेसि ण 'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसङ्घाटो, सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं गजनर किन्नर किंपुरुष महोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूताः ? इत्याह- ' सव्वरयणा मया अच्छा सहा इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः - समानलिङ्गयुग्मरूपा पुष्पावकीर्णकाश्च दिव्यवस्थिताः श्रेणिः - पङ्क्तिरुभयोः पार्श्वयोरेकैक श्रेणिभावेन यत् श्रेणिद्वयं सा वीथिः स्त्रीपुरुषयुग्मं मिथुनकं ' तेसि ण मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह' णिच्चं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निचं थवइयाओ निचं गुच्छियाओ निच्च जमलियाओ निचं जुयलियाओ निचं विनमियाओ निश् पणमियाओ निचं सुविभत्तपिण्डमञ्जरिवर्डिसगधराओ निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमञ्जरित्र डिसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथम्भूता इत्याह-' सव्वरयणामया जाव पडिरूवा ' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा '
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
,