________________
कलिता वातोद्धतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः, तुङ्गा-उच्चा उच्चैस्त्वेनार्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमणुलिहंतसिहरा' इति गगनतलं-अम्बरतलम् अनु. लिखन्ति-अभिलवयन्ति शिखराणि येषां ते तथा, जालानि जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् , तथा पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पञ्जरात्-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमा विनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानि- मणिकनकमय्यः स्तूपिका:-शिख. राणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्डविशेषा अर्धचन्द्राश्च द्वारादिषु तैश्चित्राः- तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभिः तानि नानामणिदामालकृतानि तथा अन्तर्बहिश्च श्लक्ष्णामसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तटः-प्रस्तारो येषु ते तपनीयवालुकाप्रस्तटाः ‘सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतं. सकानामन्तभूमिवर्णनमुपर्युल्लोकवर्णनं सिंहासनवर्णनमुपरि विजयदृष्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयम् । 'तेसिं ण 'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षाडेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com