SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ यमनोनिवृतिकरण । 'तेसि ण मित्यादि, तेषां द्वाराणां प्रत्ये. कमुभयोः पार्श्वयोरेकैकनैषेधिकोभावेन द्विधातो-द्विप्रकारायां नषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाट्यः प्रज्ञप्ताः, ताच शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु-अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः 'णाणाविहरागवसणाओ' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुट्टिगिज्झसुमज्झाओ' इति मुष्टिग्राह्यं सुष्ठु शोभन मध्यं-मध्यभागो यासांतास्तथा, 'आमेलगजमलजुगलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थानौ आमेलकःआपीडः शेखरक इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं ययुगलं तद्वत् वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युनतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसं. वेल्लियग्गसिरयाओं मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लितं' संवृतमधे येषां ते संवेल्लितायाः शिरोजाःकेशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजाः, 'ईसि असोगवरपायवसमुट्ठियाओ' ईषत्-मनाक अशोकवरपादपे समुपस्थिताः-आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy