SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ रययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिजथूभियागा' अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्षरवाहादीनामङ्करत्नात्मकत्वात् कनकानि-कनकमयानि फूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तपनीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं 'सेयावरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया-श्वेतानि, श्वेतत्वमेवोपमया द्रढयति-संखतलविमलनिम्मलदधिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत् शङ्खतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनः-घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्नानि-पुण्ड्रविशेषास्तैरर्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकरत्नार्धचन्द्रचित्राणि, क्वचित् 'सङ्घतलविमलनिम्मलदहियणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालकिया' इति नानामणयोनानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामा. लतानि अन्तर्बहिश्च श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तव. णिजवालुयापत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:सिकतास्तासां प्रस्तटः- प्रस्तरो येषु तानि तथा 'सुहफासा' इति सुखः-सुखहेतुः स्पों येषु तानि सुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत् । तेसि गं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पन्नाचाओ । ते णं चंदणकळसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy