SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३१ कूडो - माडमाग उच्छ्रयः शिखरं आह च जीवाभिगममूलटीकाकृत्- 'कूडो माडभाग उछ्रयः शिखर' मिति, नवरमंत्र शि. खराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि द्वारशिखराणामुक्तत्वात् वक्ष्यमाणत्वाच्च, 'सत्र्वतवणिज्जमया उल्लोया' उल्लोका - उपरिभागाः सर्वतपनीयमयाः सर्वात्मना तपनीयरूपसुवर्णविशेष मयाः 'नाणामणिरयणजालपंजर मणिवंसगलोहियक्खपडिवंसगरययभोमा' इति मणयो- मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिताख्यानि - लोहिताख्यमयाः प्रतिवंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता - रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणि पर्यायाणि येषु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वात, 'अंकामया पक्खा पक्खबाहाओ' इति अङ्को - रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमयाः, आह च जीवाभिगममूलटीकाकृत् - "अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया गवाक्षापर वंसकवेल्लुका य' इति ज्योतीरसं नाम रत्नं तन्मयाः वंशाः-महान्तः पृष्ठवंशा 'वंसकवेल्लुया य' इति महतां पृष्ठ - वंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रती - तानि 'रययामईओ पट्टिआओ' इति रजतमय्याः पट्टिकावंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमान महाप्रमाणकिलिञ्चस्थानीयाः 'वयरामईओ उवरिं पुञ्छणाओ' इति वज्रमय्यो - वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छन्यो- निविडतराच्छादन हेतु श्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण'ओहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना इति" सव्वसेय - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 66. -
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy