________________
जायोजन विष्कम्मेण देशोनयोजनमुच्चस्त्वेन 'सव्वरयणामया इत्यादि विशेषणजातं प्राग्वत् । 'सूरियाभस्स ण' मित्यदि एकैकस्यां बाहायां द्वारसहस्रमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानि च द्वाराणि प्रत्येक पञ्चयोजनशतान्यूज़ उच्चस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्धतृतीयान्येव योजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बोहुल्येनाङ्करत्नमयत्वात् 'वरकणगथूभियागा' इति वरकनका-वरकनकमयी स्तूपिका शिखरं येषां तानि तथा, 'ईहामिगउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुं.
जरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवरयवेइयापरिगया: : भिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालि
णीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानवद्भावनीय, 'वन्नो दाराणं तेसिं होई' इति तेषां द्वाराणां वर्णः-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति'तंजहे' त्यादि, तद्यथा-'वहरामया णिम्मा' इति नेमा नाम द्वाराणां भूमिभागादूर्व निष्कामन्तः प्रदेशास्ते सर्वे वज्रमयावज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, रिद्वामया पइट्ठाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः 'जायरूवोवचियपवरपंचवण्ण [वर मणिरयणकुट्टिमतला' जातरूपेण-सुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णैर्मणिभिः चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलंबद्धभूमितलं येषां ते तथा 'हंसगम्भमया एलुया' हंसगर्भमया:हंसगर्भाख्यरत्नमया एलुका-देहल्यः 'गोमेजमया इंदकीला' इति गोमेजकरत्नमया इन्द्रकीलाः, 'लोहियक्खमईओ' लोहि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com