SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ करणादत्रापि 'सण्हा लण्हा घट्टा मट्ठा' इत्यादि विशेषणजातमवगन्तव्यम्, अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानि योजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमानं प्रज्ञप्तं, अध त्रयोदशं येषां तानि अर्धत्रयोदशानि, सार्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत् योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अधौ च योजनशतानि अष्टच. त्वारिंशदधिकानि ३९५२८४८ किश्चिद्विशेषाधिकानि परिक्षेपेण' परिधिना, इदं च परिक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । ‘से णं एगेण' मित्यादि, तद्विमानमेकेन प्राकारेण सर्वतः -सर्वासु दिक्षु समन्ततः-सामस्त्येन परिक्षिप्तं ॥ ‘से णं पागारे इत्यादि, स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुस्तेन भूले एक योजनशतं विष्कम्मेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनविभागस्य विष्कम्भतस्रुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषडागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् अत एव गोपुच्छसंस्थानसंस्थितः, 'सम्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्, ‘से णं पागारे' इत्यादि, स प्राकारो 'णाणाविहपंचवण्णेहिं' इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवर्णापेक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा, पञ्चवर्णत्वमेव प्रकटयति-'कण्हेहिं' इत्यादि, 'ते ण कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy