________________
૭
म अत्र सार्धरज्मा प्रदेशे सौधर्मो नमः कल्पः प्रज्ञतः स च प्राचीनापाचीनावत, पूर्वापरायतः इत्यर्थः उदग्दक्षिणचित्तार्थः, अर्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशालदेवलोकौ समुदितौ परिपूर्ण चन्द्रमण्डल संस्थान संस्थितौ तयोश्च मेरोर्दक्षिणवर्ती सौधर्मकल्प उत्तरवत ईशानकल्पः ततो भवति स्वैधर्मकल्पः चन्द्रसंस्थानसंस्थित', 'अचिमाली' इति अर्चीषिकिरणानि तेषां माला अर्चिर्माला सा अस्यास्तीति अचिर्माली किरणमालासङ्कुल इत्यर्थः, असङ्ख्येययोजनकोटीकोटी: 'आयामविक्खंभेणं' ति आयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वस्तेन, आयामेन च विष्कम्भेन चेत्यर्थः, असङ्ख्येया योजनकोटीकोटयः ' परिक्खेवेणं' परिधिना सवस्वणामाप' इति सर्वात्मना रत्नमयः 'जान पडिरूवे' इति यावत्करणात् 'अच्छे सन्हे घठ्ठे मट्ठे' इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ प' मित्यादि, तत्र सौधर्म कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इत्याख्यातं मया शेषैश्च तीर्थकृद्भिः ॥ 'ते णं विमाणे त्यादि, तानि विमानानि सूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि - सामस्त्येन रत्नमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् 'सन्हा लव्हा घष्ठा मट्ठा नीरया' इत्यादि विशेषणजातं हृष्टव्यं तच प्राणेवानेकशो व्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभतो त्रयोदशमस्तदे सर्वत्रापि चिमानावतंसकानां स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पञ्चावतंसकाः पञ्च बिमानाघतंसकाः प्रज्ञताः, तद्यथा-भशोकावतंसकः - अशोकावतंसकनामा, स च पूर्वस्यां दिशि, तत्तो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरस्यां वृतावतंसकः मध्ये सौधर्मावतंसकः, ते च पञ्चापि विमानावतंसकाः सर्वरत्नमया 'अच्छा जान पडिरुवा' इति याब
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com