________________
१२३ सजेबिति तस्मिन्नेव दिग्मागे उपागच्छति, उपमित्य च श्रमण विकृत्वः-त्रिवारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिण प्रदक्षिणीकृत्य च वन्दते नमस्यति वन्दित्वा नस्थित्वा एवभवादीत् । 'सूरियाभस्स णं भंते !' इत्यादि, 'कहिं गए' इति क गतः ? तंत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धूलिरिति, एषोऽपि दिव्यानुभावो यथेचं क्वचित्यत्यासन्ने प्रदेशे गतः स्यात्ततो दृश्येत न चासौ दृश्यते ततो भूयः पृच्छति-'कहिं अणुपविढे' इति क्वानुप्रविष्टः ? क्वान्तीन इति भावः । भगवामाह-गौतम ! शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-'से केणटेण' मित्यादि, अथ केनार्थेन-केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुप्रविष्टः ? भगवानाह-गौतम ! ‘से जहानामए ' इत्यादि, कूटस्येवपर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शालां च कुटाकारशाला, यदि वा कूटाकारेण शिखसकृत्योपलक्षिता शाला कुटाकारशाला स्यात्, 'दुहओ लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता बहिप्राकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा-केषाश्चित् द्वाराणां स्थगितत्वात् केषाश्चिञ्चास्थगितत्वादिति निवाता-वायोरप्रवे. शात् किल महद् गृहं निवातं प्रायो न भवति तत आहनिवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भौरा, निवाता संती विशाला इत्यर्थः, ततस्तस्याः कूटांकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति, स च एकं महत् अभ्ररूपं वाईलं, अभ्रवादलं, धाराभिपातरहित सम्भाव्यवर्षे वादलमित्यर्थः, वर्षप्रधानं वादलकं वर्षवर्दलकं वर्षे कुर्वन्तं वादलकं महावात वा एजमाणं' मिति आयान्त-आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसाल' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com