SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२१ गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुथ्वी' इति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-' चउनाणोवगए' मतिश्रुतावधिमनः पर्यायज्ञानचतुष्टयसमन्वितः उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दश पूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह- 'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाता:संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ? या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादूरसामन्ते विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामन्तं सन्निकृष्टं तत्प्रतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह- 'ऊडुंजाणू अहोसिरे' ऊर्ध्व जानुनी यस्यासावूर्ध्वजानुः, अधः शिरा नोर्ध्व तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमित दृष्टिरित्यर्थः, 'झाणकोट्ठोवगए' इति ध्यानं - धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्टोपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थ, प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरा हेतुत्वेन, तथाहि अभिनवकर्मानुपादानात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 6 -
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy