________________
१२०
तथा, तथा कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य योनिकष:कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृथ्वा लोको वदतिस्पृष्टो मया देवदत्त इति, कनकपुलकनिकषवत् पद्मवच्च यो गौरः स कनकपलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्त-जाज्वल्यमानदहन इव कर्मवनगहनदहन समर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति 'महातवे' इति महान् -प्रशस्तमाशंसादोषरहितत्वात् तपो यस्य स महातपाः, तथा 'उराले' इति, उदारः-प्रधानः अथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वानामतिभयानक इति भावः,तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इति यावत्, तथा घोरा अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्य यत् तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' इति उच्छढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छृढशरीरः, 'संखित्तविउलतेउलेसे' इति सङ्किता-शरीरांतर्गतत्वेन ह्रस्वतां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com