SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११९ व्यवच्छेदार्थमाह-'अनगारः' न विद्यते अगोर-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमाह्वयंगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आहसप्तोत्सैधः-सप्तहस्तप्रमाणशरीरोच्छ्रायः, अयं चेत्थम्भूतो ल. क्षणहीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह-'समचउरससंठाणसंठिए' इति, समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविस वादिन्यश्चतस्त्रोऽस्त्रयो यस्य तत् समचतुरस्त्रं अस्त्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुःसमा-अन्यूनाधिकाश्चतस्रोऽप्यनयो यत्र तत् समचतुरस्रं तश्च तत् संस्थान चं, संस्थानम्-आकारः तच वामदक्षिणजान्वोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्थ दक्षिणजानुनश्चान्तरमिति, अपरे त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच तत्संस्थानं च २, संस्थानम्-आका. रस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जाव उठाए उठेई' इति थावत्करणात् 'वजरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चउदसपुन्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भंगघओ महावीरस्स अदूरसामन्ते उड़जाणू अहोसिरे झाणकोट्ठो. वगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भगवं गोयमे जायसड़े जायसंसए जायकोउहल्ले उप्पन्नसड़े उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसड़े संजायसंसए संजायकोउहल्ले समुप्पण्णसड्डे सपुषण्णसंसद समुपण्णकोउहल्ले उडाए उडेइ' इति द्रष्टव्यं, तब नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहनने यस्य स Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy