SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११७ म्बितं नाम त्रयोविंशतितमं २३ द्रुतविलम्बितं नाम चतुर्विंशतितमं २४ अञ्चितं नाम पञ्चविंशतितमं २५ रिभितं नाम षडिशतितमं २६ अञ्चितरिभितनाम सप्तविंशतितमं २७ आरभटं नाम अष्टाविंशतितमं २८ भसोलं नाम एकोनत्रिंशतितमं २९ आरभटभसोलं नाम त्रिंशत्तमं ३० तदनन्तरमुत्पातनिपातप्रसक्तं : सङ्कचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१ तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणच रमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरम निष्क्रमणच रमतपश्चरणचर: म- ज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणनिबद्धं चरमनिबद्धं नाम द्वात्रिंशत्तमं दिव्यं नाटयविधिमुपदर्शयन्ति ३२ । तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्गलभूतं चतुर्विधं वादित्रं वादयन्ति तद्यथा - ततं - मृदङ्गपटहादि विततं - वीणादि घनं - कंसिकादि सुषिरं - शङ्खकाहलादि, तदनन्तरं चतुर्विधं गीतं गायन्ति, तद्यथा - उत्क्षिप्तं प्रथमतः समारभ्यमाणं पादान्तं पादवृद्धं वृद्धादिचतुर्भागरूपपादबद्धमितिभावः, 'मन्दाय' मिति मध्यभागे मूर्च्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति - रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तद्रोचितावसानं । ' तप णमित्यादि, ततश्चतुर्विधं नर्तनविधिमुपदर्शयन्ति, तद्यथा - 'अश्चित' मित्यादि, 'तर ण' मित्यादि, ततश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दान्तिकं प्रात्यन्तिकं सामान्यतो विनिपातं लोक मध्यावसानिकमिति, एते नर्तनविधयोऽभिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः । ' तप णं ते बहवे देवकुमारा देवकुमारीओ' इत्यादि उपसंहारसूत्रं सुगमं, नवरं 'एगभूए' इति एकभूतः अनेकीभू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy