________________
अद्भतं-आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारंशृङ्गारं शृङ्गाररसोपेतत्वात् , अथवा शृङ्गारं नामालङ्कृतमुच्यते, तत्र यदन्यान्यविशेषकरणेनालङ्कतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारमिति, 'उराले गीए उराले वाइए उराले न?' उदारं-स्फारं परिपूर्णगुणोपेतत्वात्, नतु क्वचिदपि हीनं, 'मणुण्णे गीए मणुण्णे वाइए मणुण्णे नट्टे' मनोनं-मनोऽनुकूलं द्रष्णां श्रोतृणां च मनोनितिकरमिति भावः, तश्च मनोनिवृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाह- मणहर' इति, 'मणहरे गोए मणहरे वाइए मणहरे न?' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम् , एतदेवाह-'उप्पिालभूए' उम्पिजलम्आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ? महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचित्ताक्षेपकारीति, 'कहकहभूए' इति कहकहेत्यनुकरणं, कहकहेति भूतं-प्राप्तं कहकहभूतं, किमुक्तं भवति ? निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभर. परवशसकलदिकचक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतमिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभूत् । 'तर ण ते बहवे देव. कुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमगस्य भगवतो महावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यावर्तवर्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्त्या चित्रम्-आलेखनमाकाराभिधानं वा यस्मिन् स स्वस्तिकश्रीवत्सनन्द्यावर्तवर्धमानकमद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः, एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कतुन शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com