SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ R स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयद्वर्तते इति, 'रत्तमिति रक्तं इह यत् गेयरागातुरक्तेन गीतं गीयते तत् रक्तमिति तद्विदां प्रसिद्धं, ' तिट्ठाणकरणसुद्ध ' मिति त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन - क्रियया शुद्धं त्रिस्थान करणशुद्धं, तद्यथा-उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धं च तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरः कण्ठशिरोभिः श्लेष्मणा अव्या. कुलितैर्विशुद्वैर्गीयते तत उरः कण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्ध, तथा सकुहरो गुञ्जन् यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठु - अतिशयेन सम्प्रयुक्तं सकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसम्प्रयुक्तं, किमुक्तं भवति ? सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यद्वंशतन्त्री स्वरेणाविरुद्धं तत् सकुहरगुञ्जं शतन्त्रीसुसम्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवतिं यत् तत् तल सुसम्प्रयुक्तं यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यश्च नृत्यतां नर्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गमयो दारुमयो दन्तमयो वा योऽङ्गुलिकौशिकस्तेनाहत। यास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्प्रयुक्तं, तथा यः प्रथमं वंशतन्त्र्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसम्प्रयुक्तं, तथा ' महुरमि 'ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत्, तथा ' सममि 'ति तलवंशस्वरादिसमनुगतं समं 'सललियं 'ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनललनेन वर्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं पुनः कथम्भूतमित्याह " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy