________________
१०७
"
महावीरं त्रिकृत्य आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा च यस्मिन् प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव- एककालमेव समवसरन्ति, मिलन्तीत्यर्थः समवसृत्य च समकमेव - एककालमेव अवनमन्तिअधो नीचा भवन्ति, अवनम्य व समकमेव उन्नमन्ति, ऊध्वमवतिष्ठन्ते इति भावः, तदनन्तर 'चयं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमनं च वाच्यम्, अमीषां च सहितादीनां भेदः सम्यक्कौशलोपेतनाटयोपाध्यायादेवावगन्तव्यः, ततः स्तिमितं समकमुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, ' किं ते ' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह - 'उरेण मंद मिति, सर्वत्र सप्तम्यर्थे तृताया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेण वितार 'मिति शिरसि कण्ठे च तारं अतिशयेन यथाषलक्षणोपेतं किमुक्तं भवति ? उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, 'आदिमि. उमारभता' इति वचनात्, अन्यथा गीतगुणक्षतेः, तत उक्तं 'उरसि मन्द 'मिति, ततो गायतां मूर्द्धानमभिघ्नन् स्वर उच्चैस्तरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति, ततः शिरसि तारमित्युक्तं शिरसा प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलंब्धातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिषिर्हतिसमयरेयगरइयमिति, 'गुंजावककुहरोघगूढं ' गुञ्जनं गुजा गुजप्रधानानि यानि भवक्राणि - शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुआऽवक्रकुहरोपगूढं किमुक्तं भषति ? तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायतां गीतं तेषु प्रेक्षाग्रहमण्डपसक्तेष्वन्येषु च कुहरेषु
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com