SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ शतमङ्गरिकावादकानां ५१, अष्टशतं शिशुमारिकाणामष्टशतं शिशुमारिकावादकानां ५२, अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशत बालीनामशत बालीवादकानां बालीतूणविशेषः, स हि मुखे दत्त्वा वाद्यते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशतं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशत बद्धकवादकानां, बद्धकस्तूणविशेषः ५७, अव्याख्यातास्तु मेदा लोकतः प्रत्येतव्याः, एवमादीनि बहुन्यातोद्यानि आतोद्यवादकांच विकुर्वति, सर्वसङ्ख्यया तु मूलभेदापेक्षयातोद्यमेदा एकोनपञ्चाशत् शेषास्तु भेदा एतेष्वेवान्तभवन्ति, यथा वंशातोद्यविधाने बालोवेणुपरिलोबव्वगा इति । ' एवमाइयाइ एगुणपण्ण आतोज्जविहाणाई विउब्वाइ' इति, किंकुर्वित्वा च तान् स्वयविकुर्वितान् देवकुमारान् देवकुमारिकांश्च शब्दयति, ते च शब्दिता हृष्टतुष्टानन्दितचित्ताः सूर्याभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसावर्त च मस्तके अञ्जलिं कृत्वा जयेन विजयेन वर्धापयित्वा एवमवादिषुःसन्दिशन्तु देवानां प्रिया यदस्माभिः कर्तव्यं ततः स सूर्याभो देवस्तान् बहून् देवकुमारान् देवकुमारिकांश्च एवमवादीत्गच्छत यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्त्विा गौतमादीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्र सिद्धां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत, उपदर्श्य चैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । ' तर णमि 'त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्यामेन देवेन एवमुक्ताः सन्तो हृष्टा यावत् प्रतिशण्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छन्ति उपागत्य च श्रमणं भगवन्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat " • www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy