SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ तथा अष्टशतं खरमुखीनां-काहलानां अष्टशतं खरमुखोवादकानाम् ३, अष्टशतं पेयानां, पेया नाम महती काहला, अष्टशतं पेयावादकानां ४, अष्टशतं पीरिपीरिकाणां-कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकानां ५ अष्टशतं पणवानां, पणवो-भाण्डपटहो लघुपटहो वा अष्टशतं पणववादकानां ६ अष्टशतं पटहानां अष्टशतं पटहवादकानां ७ अष्टशतं भम्भानां भम्भा-ढक्का अष्टशतं भम्भावादकानां ८ अष्टशतं हो. रम्भाणां, होरम्भा-महाढका अष्टशतं होरम्भावादकानां ९ अष्टशतं मेरीणां-ढक्काकृतिवाद्यविशेषरूपाणामष्टशतं मेरीवादकानां १० अष्टशतं झल्लरीणां झल्लरीनाम-चर्मावनद्धा विस्तीर्णव. लयाकारा अष्टशतं झल्लरीवादकानां ११ अष्टशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां दुन्दुभिर्भेर्याकारा सङ्कटमुखी देवा. तोद्यविशेषः १२ अष्टशतं मुरुजानां महाप्रमाणो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां १३ अष्टशत मृदङ्गानां लघुमर्दलो मृदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गानां नन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५अष्टशतमालिङ्गानां आलिङ्गो -मुरजवाद्यविशेषः एवाष्टशतमालिङ्गवादकानां १६ अष्टशतं कुस्तुम्बानां कुस्तुम्बः-चावनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां १७ अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मर्दलानां, मर्दलः-उभयतः समः, अष्टशतं मर्दलवादकानां १९ अष्टशतं विपश्चीनां, विपश्ची-त्रितन्त्री वीणा, अष्टशतं विपश्चीवादकानां २०, अष्टशतं वल्लकोनां, वल्लकी-सामान्यतो वीणा, अष्टशतं वल्लकीवादकानां २१ अष्टशतंभ्रामरीणां अष्टशतं भ्रामरीवादकानां २२ अष्टशनं षड्भ्रामरीणामष्टशतं षड्भ्रामरीवादकाना २३ अष्टशतं परिवादिनीनां परिवादिनो-सततन्त्री वीणा अष्टशतं परिवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy