________________
..
.
.
तत् चित्र-चित्रवर्ण चिल्ललग-देदीप्यमान निवसन-परिधान येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाण' मिति, एकावलियर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, 'नदृसज्जाणं' नृत्ये सज्जाः-प्रगुणीभूता नृत्यसज्जास्तेषां। तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद्-वामभुजात् अष्टशतं देवकुमारिकाणां विनिगच्छति, कथम्भूतमित्याह'सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोवणगु: गोववेयाणं एगाभरणवसणगहियनिज्जोईणं दुहओसंवेल्लियग्ग. नियत्थीणमिति पूर्ववत् 'आविद्धतिलयामेलाणं ' आविद्धस्तिलक आमेलश्च-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेज्जकञ्चुकाण'मिति, पिनद्धं ग्रैवेयक-ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासां, 'नानामणिकणगरयणभू. सणविराइयंगमंगीण' मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नानि तैर्नानामणिकनकरत्नभूषणैर्विराजितान्यङ्गमङ्गानि अङ्गप्रत्यङ्गानि यासांतास्तथा तासां, 'चंदाणणाणं चन्दद्धसमनिडालाणं चन्दाहियसोमदसणाणं उक्का इव उज्जोवेमाणीणमिति सुगम 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसंलावणिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं नट्टसज्जाण'मिति पूर्ववत् । 'तए णं से सूरि यामे देवे' इत्यादि, ततः स सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्खवादकानाम् अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशतं शशिकानां अष्टशतं शशिकावादकानां २, हस्वः शङ्खो जात्यन्तरात्मकः शकिका, तस्या हि स्वरो मनाक तीक्ष्णो भवति, न तु शवदतिगम्भीरः,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com