________________
१०२
,
यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणंनिपुणबुद्धिगम्यं यथा भवति एवं ' ओविया' इति परिकर्मितानि 'मिसिमिसंतत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि - कलाचिकाभरणानि तुटितानि - बाहुरक्षका अन्यानि च यानि वरभूषणानि तैरुज्वलं- भास्वरं तथा पीवरंस्थूलं प्रलम्बं - दीर्घ । 'तर णमि 'त्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह -सदृशानां समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि (वि) त् सदृशोऽपि वर्णतः सदृशो न भवति ततः सहग्वर्णत्व कुप्रतिपादनार्थमाह-' सरित्तयाण 'मिति, सदृशी - सदृग् वर्णत्वक् येषां ते तथा, सहकत्वगपि कश्चित् वयसो विसदृशः सम्भाव्येत तत आह-' सरिव्वयाणं ' सदृक्- समानं वयो येषां ते तथा तेषां 'सरिसलावण्णरूवजोव्वणगुणोववेयाण' मिति सदृशेन लावण्येन - लवणिम्ना अतिसुभगया शरीरकान्त्येति भावः, रूपेण - आकृत्या यौवनेन - यौवनिकया गुणैः- दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपेतास्तेषां, ' एगाभरणवसनगहियनिजोगाणमिति एकः-समानः आभरणवसनादिः - आभरणवसनलक्षणो गृहीतो निर्योगः - उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां, 'दुहओ संवेल्लियग्गनियत्थाणं' ति द्विघातो- द्वयोः पार्श्वयोः संवेल्लितानि - संवृत्तानि अग्राणि यस्य तद् द्विधातः संवेल्लिताग्रं न्यस्त सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां तथा 'उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्थंतचित्तचि ललगनियंसणाण'मिति, उत्पीडितः - अत्यन्ताबद्ध चित्रपट्टो - विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्तने फेनविनिर्गमो भवति सः सफेनकावर्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गता-नाट्यविधावुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य तत्तथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com