SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ गौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवद्धि दिव्यां देवद्युति दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्प्रकारं नाट्यविधि-नाट्यविधानमुपदर्शयितुमिति । 'तए णमित्यादि, ततः श्रमणो भगवान महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम्-अनन्तरोदितमर्थ नाद्रियते-न तदर्थकरणायादरपरो भवति, नापि परिजानाति-अनुमन्यते, स्वतो वीतरामत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति । 'तए णमि' त्यादि, ततः पारिणामिक्या बुद्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते-स्तौति नमस्यति-कायेन वन्दित्वा नमस्यित्वा च 'उत्तरपुरस्थिमं दिसीभागमित्यादि सुगम, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपोठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमि 'त्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः । 'तए णमि 'त्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह--' नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडिवरभूसणुजलं'इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि-निर्मलानि तथा महान्तमुपभोकारमर्हन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy