________________
परिग्रहः । 'तुम्मे णं भंते!' तुम्मे इति यूयं गमिति वाक्यालङ्कारें भदन्त ! सर्वे केवलवेदसा जानीय सर्वे केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकास्न्येऽपि वर्तते यथा अस्य सर्वस्यापि प्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह- सव्वओ जाणह सव्वओ पासह ' सर्वतः सर्वत्र दिक्षु ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाहसर्वकालम्-अतीतमनागतं वर्तमानं च जानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित् सर्वद्रव्यसर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः अत आह सर्वान् भावान्-पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्च केवलवेदसा जानीथ केवलदर्शनेन पश्यथ, अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्तं- सव्वे भावे पासह ' इति ? नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-" निर्विशेष विशेषाणां ग्रहो दर्शनमुच्यते," इति, ततो 'जाणंति ण' मितिपूर्ववत् देवानां प्रियाः पूर्वमपि अनन्तरमुपदर्यमाननाट्यविधेः पश्चादपि च उपदर्यमाननाटयविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं लब्धं देशान्तरगतमपि किश्चिद्भवति तत आह-प्राप्त, प्राप्तमपि किश्चिदन्तरायवशादनात्मवशं भवति तत आह-अभिसमन्वागतं, तत 'इच्छामि णमित्यादि, इच्छामि णमिति
पूर्ववत् देवानांप्रियाणां पुरतो भक्तिपूर्वकं-बहुमानपुरस्सरं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com