________________
मुक्कं भवति? यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव दिशं प्रतिगतः । सम्प्रति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृच्छिषुर्यत्करोति तदाह-'तए गमि 'त्यादि, 'भवसिद्धिए' इति भवैः सिद्धिर्यस्यासौ भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽभवसिद्धिकः, अभव्य इत्यर्थः, भव्योऽपि कश्चिन्मिथ्या. दृष्टिर्भवति कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग्दृष्टिको मिथ्यादृष्टिकः, सम्यगदृष्टिरपि कश्चित्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाश्चिदनन्तसंसारभावाद्, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ? परीत्तः-परिमितः स चासौ संसारश्च परीत्तसंसारः सोऽस्यास्तीति परीत्तसंसारिकः, 'अतोऽनेकस्वरादि 'कप्रत्ययः, एवमनंतश्चासौ संसार. श्वानन्तसंसारः सोऽस्यास्तीति अनन्तसंसारिकः, परीत्तसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिदुर्लभवोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभवोधिकः, एवं दुर्लभबोधिकः, सुलभबोधिकोऽपि कश्चिद्वोधिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति-सम्यक पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चित्तद्भवमोक्षगामी न भवति ततः पृच्छति-चरमोऽचरमो वा! चरमोऽनन्तरभावी भवो यस्यासौ चरमः 'अभ्रादिभ्य' इति मत्वर्थायोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-भोः सूर्याभ! त्वं भवासद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्महिही नो मिच्छादिट्टी परित्तसंसारिए नो अणंतसंसारिए सुलभबोहिए नो दुल्लभबोहिए आराहए नो विराहए' इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com