SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ||..|| दीप अनुक्रम [१८] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [२] मूलं [१८] / गाथा [...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः कल्प. सुबो व्या० १ 5 ॥ २६ ॥ ४ २७ भवाः तब नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं तथाहि - प्रथमभवे पश्चिममहाविदेहे श्रीवीरस्स नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतः, तत्र मध्याहे भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्वा हृष्टश्चिन्तितवान्- अहो मे भाग्यं । यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधवोऽशनपाना- 18 दिभिः प्रतिलम्भिताः, पञ्चाद्भोजनानन्तरं साधून नत्वा उवाच - चलन्तु महाभागा ! मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधुभिर्योग्योऽयमिति धर्मोपदेशेन सम्यत्तत्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्वं मृत्वा द्वितीयभवे सौधर्मदेवलोके पल्योपमायुर्देवो जातः, ततश्युत्वा तृत्तीयभये मरीचिनामा भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्श्वे प्रत्रजितः स्थविरपार्श्वे एकादशाङ्गीं अधीतच, एकदा च ग्रीष्मकाले तापादिपीडितश्चिन्तितवान्-अतिदुष्करोऽयं संयमभारो मया निर्वातुं न शक्यते गृहे गमनं च सर्वथा अनुचितं इति ध्यात्वाऽभिनवं वेषं रचितवान् तथाहि - भ्रमणास्त्रिदण्डविरताः अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्तु श्रमणा द्रव्यभावाभ्यां मुण्डाः अहं तु न तथेति मम शिरसि चूडा क्षुरमुण्डनं चास्तु तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम तु स्थूलेभ्यः साऽस्तु, शीलसुगन्धाः साधवो नाहं तथेति मम चन्दनादिविलेपनमस्तु तथा अपगतमोहाः श्रमणाः अहं तु मोहाच्छादित इति मे छत्रकं अस्तु, श्रमणा अनुपानञ्चरणाः मम तु चरणयोरुपानद् अस्तु, श्रमणा निष्कषायाः अहं तु सकषाय इति इति मम काषाय्यं वस्त्रं अस्तु, श्रमणाः स्नानाद्विरताः मम तु परिमितजलेन स्नानं पानं चास्तु एवं खबुद्ध्या ... अथ भगवन्त महावीरस्य भावानां वर्णनं आरभ्यते For Private & Personal Use Only ~77 ~ २० २५ ॥ २६ ॥ २८
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy