SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ||..|| दीप अनुक्रम [१८] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [२] मूलं [१८] / गाथा [...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः: कल्प. सुबो व्या० १ ॥ २५ ॥ 'हरिवंसकुलुप्पत्ति'ति सा चैवं कुत्रचिनगरे केनचिद्राज्ञा वीरकशालापतिभार्या वनमालानाम्नी सुरूपेति स्वान्तःपुरे क्षिता, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कञ्चन पश्यति तं वनमाला वनमालेति जल्पयति, एवं च कौतुकाक्षिसैरनेकैर्लोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चास्माभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ, शालापतिश्च तो मृतौ श्रुत्वा आः पापिनोः पापं लग्नं इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा व्यन्तरोऽभूत् विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान् अहो इमी मद्वैरिणी युगलसुखं अनुभूय देवौ भवि ष्यतस्तत इमी दुर्गती पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहो तो इहानीतवान्, आनीय च राज्यं | दत्त्वा सप्त व्यसनानि शिक्षितौ ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य वंशो हरिवंशः, अम्र युगलिकस्याश्रानयनं शरीरायुःसंक्षेपणं नरकगमनं चेति सर्व आश्चर्यं (७) 'चमरुप्पाओ'त्ति चमरस्य असुरकुमारराजस्य उत्पातः, स चैवं- पूरणनामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतया उत्पन्नः, स च नवोत्पन्नः शिरःस्थं | सौधर्मेन्द्रं विलोक्य कोपाक्रान्तः परिघं गृहीत्वा श्रीवीरं शरणीकृत्य सौधर्मेन्द्रात्मरक्षकांस्त्रासयन् सौधर्मावतंसक विमानवेदिकायां पादं मुक्त्वा शक्रं आक्रोशयामास, ततो रुष्टेन शक्रेण जाज्वल्यमानं वज्रं तं प्रति मुक्तं, ततोऽसौ भीतो भगवत्पादयोलीनः, ततो ज्ञातव्यतिकरेण इन्द्रेण सहसाऽऽगत्य चतुरङ्गुलीप्रासं वज्रं गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इयं चमरस्योर्ध्वगमनं आश्रर्य (८) अट्ठसय ति For Private & Personal Use Only ~75~ आश्चर्यदशकम् २० २५ ।। २५ ।। २८
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy