________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [१८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक
[१८]
गाथा ॥१..||
तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवंति, अनावसर्पिण्यां च मिथिलापतिकुम्भराजस्य पुत्री मल्लिनानी एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीति आश्चर्य (३) 'अभाविया परिस'त्ति अभाविता पर्षद्, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानवामिना प्रथमसमव-18 सरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात इत्याश्चर्य (४) 'कण्हस्स'त्ति कृष्णस्यनवमवासुदेवस्य द्रौपदीनिमिसं अपरकवागमनं आश्चर्य, तच्चैच-पुरा किल पाण्डवभार्यया द्रौपद्या असंयतत्त्वान्नारदस्थ अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्टे पातना) घातकीखण्डभरते अपरककराजधानीप्रभोः पश्चोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवेन द्रौपदी खगृहं आनायिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो |लब्धः, ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गों द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकङ्का गतः, तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रौपदीवचसा जीवन्तं मुक्त्वा च द्रौपद्या
सह पश्चाद्वलितः, वलमानश्च शङ्ख आपूरितवान्, तच्छब्दं श्रुत्वा च तत्र बिहरमानमुनिसुव्रतजिनवचनेन IS कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्ख आपूरितवान् , ततो मिथ:
शङ्खशब्दौ मिलितो, ततोऽस्यां अवसर्पिण्यां कृष्णस्य अपरकङ्कागमनं आश्चर्य (५)'अवयरणं चंदसूराणं ति यत् कौशाम्ब्यां भगवतः श्रीवर्धमानस्वामिनो वन्दनार्थ मूलविमानेन सूर्याचन्द्रमसी उत्तीर्णौ तदाश्चर्य (६)
दीप
अनुक्रम [१८]
कल्प..
-74