SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:) .......... व्याख्यान [२] .......... मूलं [१८] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: | प्रत सूत्रांक [१८] गाथा ॥१..|| IS गौतम! नायं जिनः, किंतु शरवणग्रामवासी मङ्गलेः सुभद्राभार्यायां गोचहुलब्राह्मणगोशालायां जातत्वात् गोशालनामा अस्माकं एवं शिष्यीभूतोऽस्मत्त एव किञ्चिद् बहुश्रुतीभूतो मुधा खं जिन इति ख्यापयति, ततः सर्वतः प्रसिद्धां इमां वार्ता आकर्य मष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद-भो आनन्द ! एकं दृष्टान्तं शृणु, यथा-केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरण्यं प्रविष्टास्तत्र जलाभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति म, ततस्तरेकं शिखरं स्फोटितं, तस्माद्विपलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत एकेन वृद्धेनोक्तं-सिद्धं अस्माकं समीहितं अथ मा स्फोटयन्तु द्वितीयं शिखरं इति निवारिता अपि द्वितीयं स्फोटयामासुस्तस्माच सुवर्ण प्राप्तवन्तः तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्त-18 माद्रनानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थं अपि स्फोटयन्ति सम, तस्माच प्रादुर्भूतेन दृष्टिविषसग सर्वेऽपि स्वदृष्टिपातेन पश्चत्वं प्रापिताः, स हितोपदेशको वणिक तु न्यायित्वात् आसन्नका देवतया खस्थाने मुक्तः, एवं तब धर्माचार्योऽपि एतावत्या वसम्पदा असन्तुष्टो यथातथाभाषणेन मां रोषयति, | तेनाहं स्वतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्रं तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्यां च वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदने सर्व व्यतिकरं कथितवान् , ततो भगवता उक्तं-भो आनन्द ! शीघ्रं त्वं गौतमादीन मुनीन् कथय यत् एष गोशाल आगच्छति न केनार्यस्य दीप अनुक्रम [१८] १४ -72
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy